ऋषिः - असितः काश्यपो देवलो वा

देवता - पवमानः सोमः

छन्दः - निचृद्गायत्री

स्वरः - षड्जः

PreviousNext
स्वर सहित मन्त्र

यः सोम॑ः क॒लशे॒ष्वाँ अ॒न्तः प॒वित्र॒ आहि॑तः । तमिन्दु॒ः परि॑ षस्वजे ॥

स्वर सहित पद पाठ

यः । सोमः॑ । क॒लशे॑षु । आ । अ॒न्तरिति॑ । प॒वित्रे॑ । आऽहि॑तः । तम् । इन्दुः॑ । परि॑ । स॒स्व॒जे॒ ॥


स्वर रहित मन्त्र

यः सोमः कलशेष्वाँ अन्तः पवित्र आहितः । तमिन्दुः परि षस्वजे ॥


स्वर रहित पद पाठ

यः । सोमः । कलशेषु । आ । अन्तरिति । पवित्रे । आऽहितः । तम् । इन्दुः । परि । सस्वजे ॥