rigveda/9/111/2
ऋषिः - अनानतः पारुच्छेपिः
देवता - पवमानः सोमः
छन्दः - भुरिगष्टिः
स्वरः - मध्यमः
त्वम् । त्यत् । प॒णी॒नाम् । वि॒दः॒ । वसु॑ । सम् । मा॒तृऽभिः॑ । म॒र्ज॒य॒सि॒ । स्वे । आ । दमे॑ । ऋ॒तस्य॑ । धी॒तिऽभिः॑ । दमे॑ । प॒रा॒ऽवतः॑ । न । साम॑ । तत् । यत्र॑ । रण॑न्ति । धी॒तयः॑ । त्रि॒धातु॑ऽभिः । अरु॑षीभिः । वयः॑ । द॒धे॒ । रोच॑मानः । वयः॑ । द॒धे॒ ॥
त्वम् । त्यत् । पणीनाम् । विदः । वसु । सम् । मातृऽभिः । मर्जयसि । स्वे । आ । दमे । ऋतस्य । धीतिऽभिः । दमे । पराऽवतः । न । साम । तत् । यत्र । रणन्ति । धीतयः । त्रिधातुऽभिः । अरुषीभिः । वयः । दधे । रोचमानः । वयः । दधे ॥