rigveda/9/108/11

ए॒तमु॒ त्यं म॑द॒च्युतं॑ स॒हस्र॑धारं वृष॒भं दिवो॑ दुहुः । विश्वा॒ वसू॑नि॒ बिभ्र॑तम् ॥

ए॒तम् । ऊँ॒ इति॑ । त्यम् । म॒द॒ऽच्युत॑म् । स॒हस्र॑ऽधारम् । वृ॒ष॒भम् । दिवः॑ । दु॒हुः॒ । विश्वा॑ । वसू॑नि । बिभ्र॑तम् ॥

ऋषिः - कृतयशाः

देवता - पवमानः सोमः

छन्दः - ककुबुष्णिक्

स्वरः - ऋषभः

स्वर सहित मन्त्र

ए॒तमु॒ त्यं म॑द॒च्युतं॑ स॒हस्र॑धारं वृष॒भं दिवो॑ दुहुः । विश्वा॒ वसू॑नि॒ बिभ्र॑तम् ॥

स्वर सहित पद पाठ

ए॒तम् । ऊँ॒ इति॑ । त्यम् । म॒द॒ऽच्युत॑म् । स॒हस्र॑ऽधारम् । वृ॒ष॒भम् । दिवः॑ । दु॒हुः॒ । विश्वा॑ । वसू॑नि । बिभ्र॑तम् ॥


स्वर रहित मन्त्र

एतमु त्यं मदच्युतं सहस्रधारं वृषभं दिवो दुहुः । विश्वा वसूनि बिभ्रतम् ॥


स्वर रहित पद पाठ

एतम् । ऊँ इति । त्यम् । मदऽच्युतम् । सहस्रऽधारम् । वृषभम् । दिवः । दुहुः । विश्वा । वसूनि । बिभ्रतम् ॥