rigveda/9/107/7
ऋषिः - सप्तर्षयः
देवता - पवमानः सोमः
छन्दः - निचृत्पङ्क्ति
स्वरः - पञ्चमः
सोमः॑ । मी॒ढ्वान् । प॒व॒ते॒ । गा॒तु॒वित्ऽत॑मः । ऋषिः॑ । विप्रः॑ । वि॒ऽच॒क्ष॒णः । त्वम् । क॒विः । अ॒भ॒वः॒ । दे॒व॒ऽवीत॑मः । आ । सूर्य॑म् । रो॒ह॒यः॒ । दि॒वि ॥
सोमः । मीढ्वान् । पवते । गातुवित्ऽतमः । ऋषिः । विप्रः । विऽचक्षणः । त्वम् । कविः । अभवः । देवऽवीतमः । आ । सूर्यम् । रोहयः । दिवि ॥