rigveda/9/107/6

पु॒ना॒नः सो॑म॒ जागृ॑वि॒रव्यो॒ वारे॒ परि॑ प्रि॒यः । त्वं विप्रो॑ अभ॒वोऽङ्गि॑रस्तमो॒ मध्वा॑ य॒ज्ञं मि॑मिक्ष नः ॥

पु॒ना॒नः । सो॒म॒ । जागृ॑विः । अव्यः॑ । वारे॑ । परि॑ । प्रि॒यः । त्वम् । विप्रः॑ । अ॒भ॒वः॒ । अङ्गि॑रःऽतमः । मध्वा॑ । य॒ज्ञम् । मि॒मि॒क्ष॒ । नः॒ ॥

ऋषिः - सप्तर्षयः

देवता - पवमानः सोमः

छन्दः - विराड्बृहती

स्वरः - मध्यमः

स्वर सहित मन्त्र

पु॒ना॒नः सो॑म॒ जागृ॑वि॒रव्यो॒ वारे॒ परि॑ प्रि॒यः । त्वं विप्रो॑ अभ॒वोऽङ्गि॑रस्तमो॒ मध्वा॑ य॒ज्ञं मि॑मिक्ष नः ॥

स्वर सहित पद पाठ

पु॒ना॒नः । सो॒म॒ । जागृ॑विः । अव्यः॑ । वारे॑ । परि॑ । प्रि॒यः । त्वम् । विप्रः॑ । अ॒भ॒वः॒ । अङ्गि॑रःऽतमः । मध्वा॑ । य॒ज्ञम् । मि॒मि॒क्ष॒ । नः॒ ॥


स्वर रहित मन्त्र

पुनानः सोम जागृविरव्यो वारे परि प्रियः । त्वं विप्रो अभवोऽङ्गिरस्तमो मध्वा यज्ञं मिमिक्ष नः ॥


स्वर रहित पद पाठ

पुनानः । सोम । जागृविः । अव्यः । वारे । परि । प्रियः । त्वम् । विप्रः । अभवः । अङ्गिरःऽतमः । मध्वा । यज्ञम् । मिमिक्ष । नः ॥