rigveda/9/107/21

मृ॒ज्यमा॑नः सुहस्त्य समु॒द्रे वाच॑मिन्वसि । र॒यिं पि॒शङ्गं॑ बहु॒लं पु॑रु॒स्पृहं॒ पव॑माना॒भ्य॑र्षसि ॥

मृ॒ज्यमा॑नः । सु॒ऽह॒स्त्य॒ । स॒मु॒द्रे । वाच॑म् । इ॒न्व॒सि॒ । र॒यिम् । पि॒शङ्ग॑म् । ब॒हु॒लम् । पु॒रु॒ऽस्पृह॑म् । पव॑मान । अ॒भि । अ॒र्ष॒सि॒ ॥

ऋषिः - सप्तर्षयः

देवता - पवमानः सोमः

छन्दः - विराड्बृहती

स्वरः - मध्यमः

स्वर सहित मन्त्र

मृ॒ज्यमा॑नः सुहस्त्य समु॒द्रे वाच॑मिन्वसि । र॒यिं पि॒शङ्गं॑ बहु॒लं पु॑रु॒स्पृहं॒ पव॑माना॒भ्य॑र्षसि ॥

स्वर सहित पद पाठ

मृ॒ज्यमा॑नः । सु॒ऽह॒स्त्य॒ । स॒मु॒द्रे । वाच॑म् । इ॒न्व॒सि॒ । र॒यिम् । पि॒शङ्ग॑म् । ब॒हु॒लम् । पु॒रु॒ऽस्पृह॑म् । पव॑मान । अ॒भि । अ॒र्ष॒सि॒ ॥


स्वर रहित मन्त्र

मृज्यमानः सुहस्त्य समुद्रे वाचमिन्वसि । रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि ॥


स्वर रहित पद पाठ

मृज्यमानः । सुऽहस्त्य । समुद्रे । वाचम् । इन्वसि । रयिम् । पिशङ्गम् । बहुलम् । पुरुऽस्पृहम् । पवमान । अभि । अर्षसि ॥