rigveda/9/106/8

तव॑ द्र॒प्सा उ॑द॒प्रुत॒ इन्द्रं॒ मदा॑य वावृधुः । त्वां दे॒वासो॑ अ॒मृता॑य॒ कं प॑पुः ॥

तव॑ । द्र॒प्साः । उ॒द॒ऽप्रुतः॑ । इन्द्र॑म् । मदा॑य । व॒वृ॒धुः॒ । त्वाम् । दे॒वासः॑ । अ॒मृता॑य । कम् । प॒पुः॒ ॥

ऋषिः - मनुराप्सवः

देवता - पवमानः सोमः

छन्दः - निचृदुष्णिक्

स्वरः - ऋषभः

स्वर सहित मन्त्र

तव॑ द्र॒प्सा उ॑द॒प्रुत॒ इन्द्रं॒ मदा॑य वावृधुः । त्वां दे॒वासो॑ अ॒मृता॑य॒ कं प॑पुः ॥

स्वर सहित पद पाठ

तव॑ । द्र॒प्साः । उ॒द॒ऽप्रुतः॑ । इन्द्र॑म् । मदा॑य । व॒वृ॒धुः॒ । त्वाम् । दे॒वासः॑ । अ॒मृता॑य । कम् । प॒पुः॒ ॥


स्वर रहित मन्त्र

तव द्रप्सा उदप्रुत इन्द्रं मदाय वावृधुः । त्वां देवासो अमृताय कं पपुः ॥


स्वर रहित पद पाठ

तव । द्रप्साः । उदऽप्रुतः । इन्द्रम् । मदाय । ववृधुः । त्वाम् । देवासः । अमृताय । कम् । पपुः ॥