ऋषिः - ययातिर्नाहुषः

देवता - पवमानः सोमः

छन्दः - अनुष्टुप्

स्वरः - गान्धारः

PreviousNext
स्वर सहित मन्त्र

सु॒तासो॒ मधु॑मत्तमा॒ः सोमा॒ इन्द्रा॑य म॒न्दिन॑ः । प॒वित्र॑वन्तो अक्षरन्दे॒वान्ग॑च्छन्तु वो॒ मदा॑ः ॥

स्वर सहित पद पाठ

सु॒तासः॑ । मधु॑मत्ऽतमाः । सोमाः॑ । इन्द्रा॑य । म॒न्दिनः॑ । प॒वित्र॑ऽवन्तः । अ॒क्ष॒र॒न् । दे॒वान् । ग॒च्छ॒न्तु॒ । वः॒ । मदाः॑ ॥


स्वर रहित मन्त्र

सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः । पवित्रवन्तो अक्षरन्देवान्गच्छन्तु वो मदाः ॥


स्वर रहित पद पाठ

सुतासः । मधुमत्ऽतमाः । सोमाः । इन्द्राय । मन्दिनः । पवित्रऽवन्तः । अक्षरन् । देवान् । गच्छन्तु । वः । मदाः ॥