ऋषिः - मनुः सांवरणः

देवता - पवमानः सोमः

छन्दः - पादनिचृदनुष्टुप्

स्वरः - गान्धारः

PreviousNext
स्वर सहित मन्त्र

सोमा॑ः पवन्त॒ इन्द॑वो॒ऽस्मभ्यं॑ गातु॒वित्त॑माः । मि॒त्राः सु॑वा॒ना अ॑रे॒पस॑ः स्वा॒ध्य॑ः स्व॒र्विद॑ः ॥

स्वर सहित पद पाठ

सोमाः॑ । प॒व॒न्ते॒ । इन्द॑वः । अ॒स्मभ्य॑म् । गा॒तु॒वित्ऽत॑माः । मि॒त्राः । सु॒वा॒नाः । अ॒रे॒पसः॑ । सु॒ऽआ॒ध्यः॑ । स्वः॒ऽविदः॑ ॥


स्वर रहित मन्त्र

सोमाः पवन्त इन्दवोऽस्मभ्यं गातुवित्तमाः । मित्राः सुवाना अरेपसः स्वाध्यः स्वर्विदः ॥


स्वर रहित पद पाठ

सोमाः । पवन्ते । इन्दवः । अस्मभ्यम् । गातुवित्ऽतमाः । मित्राः । सुवानाः । अरेपसः । सुऽआध्यः । स्वःऽविदः ॥