rigveda/9/100/7

त्वां रि॑हन्ति मा॒तरो॒ हरिं॑ प॒वित्रे॑ अ॒द्रुह॑: । व॒त्सं जा॒तं न धे॒नव॒: पव॑मान॒ विध॑र्मणि ॥

त्वाम् । रि॒ह॒न्ति॒ । मा॒तरः॑ । हरि॑म् । प॒वित्रे॑ । अ॒द्रुहः॑ । व॒त्सम् । जा॒तम् । न । धे॒नवः॑ । पव॑मान । विऽध॑र्मणि ॥

ऋषिः - रेभसूनू काश्यपौ

देवता - पवमानः सोमः

छन्दः - निचृदनुष्टुप्

स्वरः - गान्धारः

स्वर सहित मन्त्र

त्वां रि॑हन्ति मा॒तरो॒ हरिं॑ प॒वित्रे॑ अ॒द्रुह॑: । व॒त्सं जा॒तं न धे॒नव॒: पव॑मान॒ विध॑र्मणि ॥

स्वर सहित पद पाठ

त्वाम् । रि॒ह॒न्ति॒ । मा॒तरः॑ । हरि॑म् । प॒वित्रे॑ । अ॒द्रुहः॑ । व॒त्सम् । जा॒तम् । न । धे॒नवः॑ । पव॑मान । विऽध॑र्मणि ॥


स्वर रहित मन्त्र

त्वां रिहन्ति मातरो हरिं पवित्रे अद्रुह: । वत्सं जातं न धेनव: पवमान विधर्मणि ॥


स्वर रहित पद पाठ

त्वाम् । रिहन्ति । मातरः । हरिम् । पवित्रे । अद्रुहः । वत्सम् । जातम् । न । धेनवः । पवमान । विऽधर्मणि ॥