rigveda/9/100/2
ऋषिः - रेभसूनू काश्यपौ
देवता - पवमानः सोमः
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
पु॒ना॒नः । इ॒न्दो॒ इति॑ । आ । भ॒र॒ । सोम॑ । द्वि॒ऽबर्ह॑सम् । र॒यिम् । त्वम् । वसू॑नि । पु॒ष्य॒सि॒ । विश्वा॑नि । दा॒शुषः॑ । गृ॒हे ॥
पुनानः । इन्दो इति । आ । भर । सोम । द्विऽबर्हसम् । रयिम् । त्वम् । वसूनि । पुष्यसि । विश्वानि । दाशुषः । गृहे ॥