rigveda/8/98/7

अधा॒ ही॑न्द्र गिर्वण॒ उप॑ त्वा॒ कामा॑न्म॒हः स॑सृ॒ज्महे॑ । उ॒देव॒ यन्त॑ उ॒दभि॑: ॥

अध॑ । हि । इ॒न्द्र॒ । गि॒र्व॒णः॒ । उप॑ । त्वा॒ । कामा॑न् । म॒हः । स॒सृ॒ज्महे॑ । उ॒त् । एव॑ । यन्तः॑ । उ॒दऽभिः॑ ॥

ऋषिः - नृमेधः

देवता - इन्द्र:

छन्दः - विराडुष्निक्

स्वरः - ऋषभः

स्वर सहित मन्त्र

अधा॒ ही॑न्द्र गिर्वण॒ उप॑ त्वा॒ कामा॑न्म॒हः स॑सृ॒ज्महे॑ । उ॒देव॒ यन्त॑ उ॒दभि॑: ॥

स्वर सहित पद पाठ

अध॑ । हि । इ॒न्द्र॒ । गि॒र्व॒णः॒ । उप॑ । त्वा॒ । कामा॑न् । म॒हः । स॒सृ॒ज्महे॑ । उ॒त् । एव॑ । यन्तः॑ । उ॒दऽभिः॑ ॥


स्वर रहित मन्त्र

अधा हीन्द्र गिर्वण उप त्वा कामान्महः ससृज्महे । उदेव यन्त उदभि: ॥


स्वर रहित पद पाठ

अध । हि । इन्द्र । गिर्वणः । उप । त्वा । कामान् । महः । ससृज्महे । उत् । एव । यन्तः । उदऽभिः ॥