rigveda/8/94/1

गौर्ध॑यति म॒रुतां॑ श्रव॒स्युर्मा॒ता म॒घोना॑म् । यु॒क्ता वह्नी॒ रथा॑नाम् ॥

गौः । ध॒य॒ति॒ । म॒रुता॑म् । श्र॒व॒स्युः । म॒ता । म॒घोना॑म् । यु॒क्ता । वह्निः॑ । रथा॑नाम् ॥

ऋषिः - बिन्दुः पूतदक्षो वा

देवता - मरूतः

छन्दः - विराड्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

गौर्ध॑यति म॒रुतां॑ श्रव॒स्युर्मा॒ता म॒घोना॑म् । यु॒क्ता वह्नी॒ रथा॑नाम् ॥

स्वर सहित पद पाठ

गौः । ध॒य॒ति॒ । म॒रुता॑म् । श्र॒व॒स्युः । म॒ता । म॒घोना॑म् । यु॒क्ता । वह्निः॑ । रथा॑नाम् ॥


स्वर रहित मन्त्र

गौर्धयति मरुतां श्रवस्युर्माता मघोनाम् । युक्ता वह्नी रथानाम् ॥


स्वर रहित पद पाठ

गौः । धयति । मरुताम् । श्रवस्युः । मता । मघोनाम् । युक्ता । वह्निः । रथानाम् ॥