rigveda/8/93/27
ऋषिः - सुकक्षः
देवता - इन्द्र:
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
आ । ते॒ । द॒धा॒मि॒ । इ॒न्द्रि॒यम् । उ॒क्था । विश्वा॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । स्तो॒तृऽभ्यः॑ । इ॒न्द्र॒ । मृ॒ळ॒य॒ ॥
आ । ते । दधामि । इन्द्रियम् । उक्था । विश्वा । शतक्रतो इति शतऽक्रतो । स्तोतृऽभ्यः । इन्द्र । मृळय ॥