rigveda/8/89/5
ऋषिः - नृमेधपुरुमेधौ
देवता - इन्द्र:
छन्दः - विराडनुष्टुप्
स्वरः - गान्धारः
यत् । जाय॑थ । अ॒पू॒र्व्य॒ । मघ॑ऽवन् । वृ॒त्र॒ऽहत्या॑य । तत् । पृ॒थि॒वीम् । अ॒प्र॒थ॒यः॒ । तत् । अ॒स्त॒भ्नाः॒ । उ॒त । द्याम् ॥
यत् । जायथ । अपूर्व्य । मघऽवन् । वृत्रऽहत्याय । तत् । पृथिवीम् । अप्रथयः । तत् । अस्तभ्नाः । उत । द्याम् ॥