rigveda/8/89/1
ऋषिः - नृमेधपुरुमेधौ
देवता - इन्द्र:
छन्दः - बृहती
स्वरः - मध्यमः
बृ॒हत् । इन्द्रा॑य । गा॒य॒त॒ । मरु॑तः । वृ॒त्र॒हम्ऽत॑मम् । येन॑ । ज्योतिः॑ । अज॑नयन् । ऋ॒त॒ऽवृधः॑ । दे॒वम् । दे॒वाय॑ । जागृ॑वि ॥
बृहत् । इन्द्राय । गायत । मरुतः । वृत्रहम्ऽतमम् । येन । ज्योतिः । अजनयन् । ऋतऽवृधः । देवम् । देवाय । जागृवि ॥