rigveda/8/87/3
ऋषिः - कृष्णो द्युम्नीको वा वासिष्ठः प्रियमेधो वा
देवता - अश्विनौ
छन्दः - बृहती
स्वरः - मध्यमः
आ । वा॒म् । विश्वा॑भिः । ऊ॒तिऽभिः॑ । प्रि॒यऽमे॑धाः । अ॒हू॒ष॒त॒ । ता । व॒र्तिः । या॒त॒म् । उप॑ । वृ॒क्तऽब॑र्हिषः । जुष्ट॑म् । य॒ज्ञम् । दिवि॑ष्टिषु ॥
आ । वाम् । विश्वाभिः । ऊतिऽभिः । प्रियऽमेधाः । अहूषत । ता । वर्तिः । यातम् । उप । वृक्तऽबर्हिषः । जुष्टम् । यज्ञम् । दिविष्टिषु ॥