rigveda/8/86/1
ऋषिः - कृष्णो विश्वको वा कार्ष्णिः
देवता - अश्विनौ
छन्दः - विराड्जगती
स्वरः - निषादः
उ॒भा । हि । द॒स्रा । भि॒षजा॑ । म॒यः॒ऽभुवा॑ । उ॒भा । दक्ष॑स्य । वच॑सः । ब॒भू॒वथुः॑ । ता । वा॒म् । विश्व॑कः । ह॒व॒ते॒ । त॒नू॒ऽकृ॒थे । मा । नः॒ । वि । यौ॒ष्ट॒म् । स॒ख्या । मु॒मोच॑तम् ॥
उभा । हि । दस्रा । भिषजा । मयःऽभुवा । उभा । दक्षस्य । वचसः । बभूवथुः । ता । वाम् । विश्वकः । हवते । तनूऽकृथे । मा । नः । वि । यौष्टम् । सख्या । मुमोचतम् ॥