rigveda/8/80/10
ऋषिः - एकद्यूर्नौधसः
देवता - देवाः
छन्दः - त्रिष्टुप्
स्वरः - षड्जः
अवी॑वृधत् । वः॒ । अ॒मृ॒ताः॒ । अम॑न्दीत् । ए॒क॒ऽद्यूः । दे॒वाः॒ । उ॒त । याः । च॒ । दे॒वीः॒ । तस्मै॑ । ऊँ॒ इति॑ । राधः॑ । कृ॒णु॒त॒ । प्र॒ऽश॒स्तम् । प्रा॒तः । म॒क्षु । धि॒याऽव॑सुः । ज॒ग॒म्या॒त् ॥
अवीवृधत् । वः । अमृताः । अमन्दीत् । एकऽद्यूः । देवाः । उत । याः । च । देवीः । तस्मै । ऊँ इति । राधः । कृणुत । प्रऽशस्तम् । प्रातः । मक्षु । धियाऽवसुः । जगम्यात् ॥