rigveda/8/80/1

न॒ह्य१॒॑न्यं ब॒ळाक॑रं मर्डि॒तारं॑ शतक्रतो । त्वं न॑ इन्द्र मृळय ॥

न॒हि । अ॒न्यम् । ब॒ला । अक॑रम् । म॒र्डि॒तार॑म् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । त्वम् । नः॒ । इ॒न्द्र॒ । मृ॒ळ॒य॒ ॥

ऋषिः - एकद्यूर्नौधसः

देवता - इन्द्र:

छन्दः - विराड्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

न॒ह्य१॒॑न्यं ब॒ळाक॑रं मर्डि॒तारं॑ शतक्रतो । त्वं न॑ इन्द्र मृळय ॥

स्वर सहित पद पाठ

न॒हि । अ॒न्यम् । ब॒ला । अक॑रम् । म॒र्डि॒तार॑म् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । त्वम् । नः॒ । इ॒न्द्र॒ । मृ॒ळ॒य॒ ॥


स्वर रहित मन्त्र

नह्य१न्यं बळाकरं मर्डितारं शतक्रतो । त्वं न इन्द्र मृळय ॥


स्वर रहित पद पाठ

नहि । अन्यम् । बला । अकरम् । मर्डितारम् । शतक्रतो इति शतऽक्रतो । त्वम् । नः । इन्द्र । मृळय ॥