rigveda/8/79/3

त्वं सो॑म तनू॒कृद्भ्यो॒ द्वेषो॑भ्यो॒ऽन्यकृ॑तेभ्यः । उ॒रु य॒न्तासि॒ वरू॑थम् ॥

त्वम् । सो॒म॒ । त॒नू॒कृत्ऽभ्यः॑ । द्वेषः॑ऽभ्यः । अ॒न्यऽकृ॑तेभ्यः । उ॒रु । य॒न्ता । अ॒सि॒ । वरू॑थम् ॥

ऋषिः - कृत्नुर्भार्गवः

देवता - सोमः

छन्दः - विराट्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

त्वं सो॑म तनू॒कृद्भ्यो॒ द्वेषो॑भ्यो॒ऽन्यकृ॑तेभ्यः । उ॒रु य॒न्तासि॒ वरू॑थम् ॥

स्वर सहित पद पाठ

त्वम् । सो॒म॒ । त॒नू॒कृत्ऽभ्यः॑ । द्वेषः॑ऽभ्यः । अ॒न्यऽकृ॑तेभ्यः । उ॒रु । य॒न्ता । अ॒सि॒ । वरू॑थम् ॥


स्वर रहित मन्त्र

त्वं सोम तनूकृद्भ्यो द्वेषोभ्योऽन्यकृतेभ्यः । उरु यन्तासि वरूथम् ॥


स्वर रहित पद पाठ

त्वम् । सोम । तनूकृत्ऽभ्यः । द्वेषःऽभ्यः । अन्यऽकृतेभ्यः । उरु । यन्ता । असि । वरूथम् ॥