rigveda/8/77/11

तु॒वि॒क्षं ते॒ सुकृ॑तं सू॒मयं॒ धनु॑: सा॒धुर्बु॒न्दो हि॑र॒ण्यय॑: । उ॒भा ते॑ बा॒हू रण्या॒ सुसं॑स्कृत ऋदू॒पे चि॑दृदू॒वृधा॑ ॥

तु॒वि॒ऽक्षम् । ते॒ । सुऽकृ॑तम् । सु॒ऽमय॑म् । धनुः॑ । सा॒धुः । बु॒न्दः । हि॒र॒ण्ययः॑ । उ॒भा । ते॒ । बा॒हू इति॑ । रण्या॑ । सुऽसं॑स्कृता । ऋ॒दु॒ऽपे । चि॒त् । ऋ॒दु॒ऽवृधा॑ ॥

ऋषिः - कुरुसुतिः काण्वः

देवता - इन्द्र:

छन्दः - निचृत्पङ्क्ति

स्वरः - पञ्चमः

स्वर सहित मन्त्र

तु॒वि॒क्षं ते॒ सुकृ॑तं सू॒मयं॒ धनु॑: सा॒धुर्बु॒न्दो हि॑र॒ण्यय॑: । उ॒भा ते॑ बा॒हू रण्या॒ सुसं॑स्कृत ऋदू॒पे चि॑दृदू॒वृधा॑ ॥

स्वर सहित पद पाठ

तु॒वि॒ऽक्षम् । ते॒ । सुऽकृ॑तम् । सु॒ऽमय॑म् । धनुः॑ । सा॒धुः । बु॒न्दः । हि॒र॒ण्ययः॑ । उ॒भा । ते॒ । बा॒हू इति॑ । रण्या॑ । सुऽसं॑स्कृता । ऋ॒दु॒ऽपे । चि॒त् । ऋ॒दु॒ऽवृधा॑ ॥


स्वर रहित मन्त्र

तुविक्षं ते सुकृतं सूमयं धनु: साधुर्बुन्दो हिरण्यय: । उभा ते बाहू रण्या सुसंस्कृत ऋदूपे चिदृदूवृधा ॥


स्वर रहित पद पाठ

तुविऽक्षम् । ते । सुऽकृतम् । सुऽमयम् । धनुः । साधुः । बुन्दः । हिरण्ययः । उभा । ते । बाहू इति । रण्या । सुऽसंस्कृता । ऋदुऽपे । चित् । ऋदुऽवृधा ॥