rigveda/8/76/4

अ॒यं ह॒ येन॒ वा इ॒दं स्व॑र्म॒रुत्व॑ता जि॒तम् । इन्द्रे॑ण॒ सोम॑पीतये ॥

अ॒यम् । ह॒ । येन॑ । वै । इ॒दम् । स्वः॑ । म॒रुत्व॑ता । जि॒तम् । इन्द्रे॑ण । सोम॑ऽपीतये ॥

ऋषिः - कुरुसुतिः काण्वः

देवता - इन्द्र:

छन्दः - निचृद्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

अ॒यं ह॒ येन॒ वा इ॒दं स्व॑र्म॒रुत्व॑ता जि॒तम् । इन्द्रे॑ण॒ सोम॑पीतये ॥

स्वर सहित पद पाठ

अ॒यम् । ह॒ । येन॑ । वै । इ॒दम् । स्वः॑ । म॒रुत्व॑ता । जि॒तम् । इन्द्रे॑ण । सोम॑ऽपीतये ॥


स्वर रहित मन्त्र

अयं ह येन वा इदं स्वर्मरुत्वता जितम् । इन्द्रेण सोमपीतये ॥


स्वर रहित पद पाठ

अयम् । ह । येन । वै । इदम् । स्वः । मरुत्वता । जितम् । इन्द्रेण । सोमऽपीतये ॥