rigveda/8/71/2

न॒हि म॒न्युः पौरु॑षेय॒ ईशे॒ हि व॑: प्रियजात । त्वमिद॑सि॒ क्षपा॑वान् ॥

न॒हि । म॒न्युः । पौरु॑षेयः । ईशे॑ । हि । वः॒ । प्रि॒य॒ऽजा॒त॒ । त्वम् । इत् । अ॒सि॒ । क्षपा॑ऽवान् ॥

ऋषिः - सुदीतिपुरुमीळहौ तयोर्वान्यतरः

देवता - अग्निः

छन्दः - निचृद्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

न॒हि म॒न्युः पौरु॑षेय॒ ईशे॒ हि व॑: प्रियजात । त्वमिद॑सि॒ क्षपा॑वान् ॥

स्वर सहित पद पाठ

न॒हि । म॒न्युः । पौरु॑षेयः । ईशे॑ । हि । वः॒ । प्रि॒य॒ऽजा॒त॒ । त्वम् । इत् । अ॒सि॒ । क्षपा॑ऽवान् ॥


स्वर रहित मन्त्र

नहि मन्युः पौरुषेय ईशे हि व: प्रियजात । त्वमिदसि क्षपावान् ॥


स्वर रहित पद पाठ

नहि । मन्युः । पौरुषेयः । ईशे । हि । वः । प्रियऽजात । त्वम् । इत् । असि । क्षपाऽवान् ॥