rigveda/8/71/11
ऋषिः - सुदीतिपुरुमीळहौ तयोर्वान्यतरः
देवता - अग्निः
छन्दः - बृहती
स्वरः - मध्यमः
अ॒ग्निम् । सू॒नुम् । सह॑सः । जा॒तऽवे॑दसम् । दा॒नाय॑ । वार्या॑णाम् । द्वि॒ता । यः । भूत् । अ॒मृतः॑ । मर्त्ये॑षु । आ । होता॑ । म॒न्द्रऽत॑मः । वि॒शि ॥
अग्निम् । सूनुम् । सहसः । जातऽवेदसम् । दानाय । वार्याणाम् । द्विता । यः । भूत् । अमृतः । मर्त्येषु । आ । होता । मन्द्रऽतमः । विशि ॥