ऋषिः - पुनर्वत्सः काण्वः

देवता - मरूतः

छन्दः - गायत्री

स्वरः - षड्जः

PreviousNext
स्वर सहित मन्त्र

उदु॑ स्वा॒नेभि॑रीरत॒ उद्रथै॒रुदु॑ वा॒युभि॑ः । उत्स्तोमै॒ः पृश्नि॑मातरः ॥

स्वर सहित पद पाठ

उत् । ऊँ॒ इति॑ । स्व॒नेभिः॑ । ई॒र॒ते॒ । उत् । रथैः॑ । उत् । ऊँ॒ इति॑ । वा॒युऽभिः॑ । उत् । स्तोमैः॑ । पृश्नि॑ऽमातरः ॥


स्वर रहित मन्त्र

उदु स्वानेभिरीरत उद्रथैरुदु वायुभिः । उत्स्तोमैः पृश्निमातरः ॥


स्वर रहित पद पाठ

उत् । ऊँ इति । स्वनेभिः । ईरते । उत् । रथैः । उत् । ऊँ इति । वायुऽभिः । उत् । स्तोमैः । पृश्निऽमातरः ॥