rigveda/8/67/18

तत्सु नो॒ नव्यं॒ सन्य॑स॒ आदि॑त्या॒ यन्मुमो॑चति । ब॒न्धाद्ब॒द्धमि॑वादिते ॥

तत् । सु । नः॒ । नव्य॑म् । सन्य॑से । आदि॑त्याः । यत् । मुमो॑चति । ब॒न्धात् । ब॒द्धम्ऽइ॑व । अ॒दि॒ते॒ ॥

ऋषिः - मत्स्यः साम्मदो मान्यो वा मैत्रावरुणिर्बहवो वा मत्स्या जालनध्दाः

देवता - आदित्याः

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

तत्सु नो॒ नव्यं॒ सन्य॑स॒ आदि॑त्या॒ यन्मुमो॑चति । ब॒न्धाद्ब॒द्धमि॑वादिते ॥

स्वर सहित पद पाठ

तत् । सु । नः॒ । नव्य॑म् । सन्य॑से । आदि॑त्याः । यत् । मुमो॑चति । ब॒न्धात् । ब॒द्धम्ऽइ॑व । अ॒दि॒ते॒ ॥


स्वर रहित मन्त्र

तत्सु नो नव्यं सन्यस आदित्या यन्मुमोचति । बन्धाद्बद्धमिवादिते ॥


स्वर रहित पद पाठ

तत् । सु । नः । नव्यम् । सन्यसे । आदित्याः । यत् । मुमोचति । बन्धात् । बद्धम्ऽइव । अदिते ॥