ऋषिः - प्रगाथः काण्वः

देवता - इन्द्र:

छन्दः - विराट्पङ्क्ति

स्वरः - पञ्चमः

PreviousNext
स्वर सहित मन्त्र

धृ॒ष॒तश्चि॑द्धृ॒षन्मन॑ः कृ॒णोषी॑न्द्र॒ यत्त्वम् । ती॒व्रैः सोमै॑ः सपर्य॒तो नमो॑भिः प्रति॒भूष॑तो भ॒द्रा इन्द्र॑स्य रा॒तय॑ः ॥

स्वर सहित पद पाठ

धृ॒ष॒तः । चि॒त् । धृ॒षत् । मनः॑ । कृ॒णोषि॑ । इ॒न्द्र॒ । यत् । त्वम् । ती॒व्रैः । सोमैः॑ । स॒प॒र्य॒तः । नमः॑ऽभिः । प्र॒ति॒ऽभूष॑तः । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥


स्वर रहित मन्त्र

धृषतश्चिद्धृषन्मनः कृणोषीन्द्र यत्त्वम् । तीव्रैः सोमैः सपर्यतो नमोभिः प्रतिभूषतो भद्रा इन्द्रस्य रातयः ॥


स्वर रहित पद पाठ

धृषतः । चित् । धृषत् । मनः । कृणोषि । इन्द्र । यत् । त्वम् । तीव्रैः । सोमैः । सपर्यतः । नमःऽभिः । प्रतिऽभूषतः । भद्राः । इन्द्रस्य । रातयः ॥