rigveda/8/62/1

प्रो अ॑स्मा॒ उप॑स्तुतिं॒ भर॑ता॒ यज्जुजो॑षति । उ॒क्थैरिन्द्र॑स्य॒ माहि॑नं॒ वयो॑ वर्धन्ति सो॒मिनो॑ भ॒द्रा इन्द्र॑स्य रा॒तय॑: ॥

प्रो इति॑ । अ॒स्मै॒ । उप॑ऽस्तुति॑म् । भर॑त । यत् । जुजो॑षति । उ॒क्थैः । इन्द्र॑स्य । माहि॑नम् । वयः॑ । व॒र्ध॒न्ति॒ । सो॒मिनः॑ । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥

ऋषिः - प्रगाथः काण्वः

देवता - इन्द्र:

छन्दः - निचृत्पङ्क्ति

स्वरः - पञ्चमः

स्वर सहित मन्त्र

प्रो अ॑स्मा॒ उप॑स्तुतिं॒ भर॑ता॒ यज्जुजो॑षति । उ॒क्थैरिन्द्र॑स्य॒ माहि॑नं॒ वयो॑ वर्धन्ति सो॒मिनो॑ भ॒द्रा इन्द्र॑स्य रा॒तय॑: ॥

स्वर सहित पद पाठ

प्रो इति॑ । अ॒स्मै॒ । उप॑ऽस्तुति॑म् । भर॑त । यत् । जुजो॑षति । उ॒क्थैः । इन्द्र॑स्य । माहि॑नम् । वयः॑ । व॒र्ध॒न्ति॒ । सो॒मिनः॑ । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥


स्वर रहित मन्त्र

प्रो अस्मा उपस्तुतिं भरता यज्जुजोषति । उक्थैरिन्द्रस्य माहिनं वयो वर्धन्ति सोमिनो भद्रा इन्द्रस्य रातय: ॥


स्वर रहित पद पाठ

प्रो इति । अस्मै । उपऽस्तुतिम् । भरत । यत् । जुजोषति । उक्थैः । इन्द्रस्य । माहिनम् । वयः । वर्धन्ति । सोमिनः । भद्राः । इन्द्रस्य । रातयः ॥