rigveda/8/61/17
ऋषिः - भर्गः प्रागाथः
देवता - इन्द्र:
छन्दः - पाद्निचृद्बृहती
स्वरः - मध्यमः
अ॒द्यऽअ॑द्य । श्वःऽश्वः॑ । इन्द्र॑स् । त्रास्व॑ । प॒रे । च॒ । नः॒ । विश्वा॑ । च॒ । नः॒ । ज॒रि॒तॄन् । स॒त्ऽप॒ते॒ । अहा॑ । दिवा॑ । नक्त॑म् । च॒ । र॒क्षि॒षः॒ ॥
अद्यऽअद्य । श्वःऽश्वः । इन्द्रस् । त्रास्व । परे । च । नः । विश्वा । च । नः । जरितॄन् । सत्ऽपते । अहा । दिवा । नक्तम् । च । रक्षिषः ॥