rigveda/8/59/5

अवो॑चाम मह॒ते सौभ॑गाय स॒त्यं त्वे॒षाभ्यां॑ महि॒मान॑मिन्द्रि॒यम् । अ॒स्मान्त्स्वि॑न्द्रावरुणा घृत॒श्चुत॒स्त्रिभि॑: सा॒प्तेभि॑रवतं शुभस्पती ॥

अवो॑चाम । म॒ह॒ते । सौभ॑गाय । स॒त्यम् । त्वे॒षाभ्या॑म् । म॒हि॒मान॑म् । इ॒न्द्रि॒यम् । अ॒स्मान् । सु । इ॒न्द्रा॒व॒रु॒णा॒ । घृ॒त॒ऽश्चुतः॑ । त्रिऽभिः॑ । सा॒प्तेभिः॑ । अ॒व॒त॒म् । शु॒भः॒ । प॒ती॒ इति॑ ॥

ऋषिः - सुपर्णः काण्वः

देवता - इन्द्रावरुणौ

छन्दः - विराड्जगती

स्वरः - निषादः

स्वर सहित मन्त्र

अवो॑चाम मह॒ते सौभ॑गाय स॒त्यं त्वे॒षाभ्यां॑ महि॒मान॑मिन्द्रि॒यम् । अ॒स्मान्त्स्वि॑न्द्रावरुणा घृत॒श्चुत॒स्त्रिभि॑: सा॒प्तेभि॑रवतं शुभस्पती ॥

स्वर सहित पद पाठ

अवो॑चाम । म॒ह॒ते । सौभ॑गाय । स॒त्यम् । त्वे॒षाभ्या॑म् । म॒हि॒मान॑म् । इ॒न्द्रि॒यम् । अ॒स्मान् । सु । इ॒न्द्रा॒व॒रु॒णा॒ । घृ॒त॒ऽश्चुतः॑ । त्रिऽभिः॑ । सा॒प्तेभिः॑ । अ॒व॒त॒म् । शु॒भः॒ । प॒ती॒ इति॑ ॥


स्वर रहित मन्त्र

अवोचाम महते सौभगाय सत्यं त्वेषाभ्यां महिमानमिन्द्रियम् । अस्मान्त्स्विन्द्रावरुणा घृतश्चुतस्त्रिभि: साप्तेभिरवतं शुभस्पती ॥


स्वर रहित पद पाठ

अवोचाम । महते । सौभगाय । सत्यम् । त्वेषाभ्याम् । महिमानम् । इन्द्रियम् । अस्मान् । सु । इन्द्रावरुणा । घृतऽश्चुतः । त्रिऽभिः । साप्तेभिः । अवतम् । शुभः । पती इति ॥