rigveda/8/59/1

इ॒मानि॑ वां भाग॒धेया॑नि सिस्रत॒ इन्द्रा॑वरुणा॒ प्र म॒हे सु॒तेषु॑ वाम् । य॒ज्ञेय॑ज्ञे ह॒ सव॑ना भुर॒ण्यथो॒ यत्सु॑न्व॒ते यज॑मानाय॒ शिक्ष॑थः ॥

इ॒मानि॑ । वा॒म् । भा॒ग॒ऽधेया॑नि । सि॒स्र॒ते॒ । इन्द्रा॑वरुणा । प्र । म॒हे । सु॒तेषु॑ । वा॒म् । य॒ज्ञेऽय॑ज्ञे । ह॒ । सव॑ना । भु॒र॒ण्यथः॑ । यत् । सु॒न्व॒ते । यज॑मानाय । शिक्ष॑थः ॥

ऋषिः - सुपर्णः काण्वः

देवता - इन्द्रावरुणौ

छन्दः - जगती

स्वरः - निषादः

स्वर सहित मन्त्र

इ॒मानि॑ वां भाग॒धेया॑नि सिस्रत॒ इन्द्रा॑वरुणा॒ प्र म॒हे सु॒तेषु॑ वाम् । य॒ज्ञेय॑ज्ञे ह॒ सव॑ना भुर॒ण्यथो॒ यत्सु॑न्व॒ते यज॑मानाय॒ शिक्ष॑थः ॥

स्वर सहित पद पाठ

इ॒मानि॑ । वा॒म् । भा॒ग॒ऽधेया॑नि । सि॒स्र॒ते॒ । इन्द्रा॑वरुणा । प्र । म॒हे । सु॒तेषु॑ । वा॒म् । य॒ज्ञेऽय॑ज्ञे । ह॒ । सव॑ना । भु॒र॒ण्यथः॑ । यत् । सु॒न्व॒ते । यज॑मानाय । शिक्ष॑थः ॥


स्वर रहित मन्त्र

इमानि वां भागधेयानि सिस्रत इन्द्रावरुणा प्र महे सुतेषु वाम् । यज्ञेयज्ञे ह सवना भुरण्यथो यत्सुन्वते यजमानाय शिक्षथः ॥


स्वर रहित पद पाठ

इमानि । वाम् । भागऽधेयानि । सिस्रते । इन्द्रावरुणा । प्र । महे । सुतेषु । वाम् । यज्ञेऽयज्ञे । ह । सवना । भुरण्यथः । यत् । सुन्वते । यजमानाय । शिक्षथः ॥