rigveda/8/54/1

ए॒तत्त॑ इन्द्र वी॒र्यं॑ गी॒र्भिर्गृ॒णन्ति॑ का॒रव॑: । ते स्तोभ॑न्त॒ ऊर्ज॑मावन्घृत॒श्चुतं॑ पौ॒रासो॑ नक्षन्धी॒तिभि॑: ॥

ए॒तत् । ते॒ । इ॒न्द्र॒ । वी॒र्य॑म् । गीः॒ऽभिः । गृ॒णन्ति॑ । का॒रवः॑ । ते । स्तोभ॑न्तः । ऊर्ज॑म् । आ॒व॒न् । घृ॒त॒ऽश्चुत॑म् । पौ॒रासः॑ । न॒क्ष॒न् । धी॒तिऽभिः॑ ॥

ऋषिः - मातरिश्वा काण्वः

देवता - इन्द्र:

छन्दः - निचृत्बृहती

स्वरः - मध्यमः

स्वर सहित मन्त्र

ए॒तत्त॑ इन्द्र वी॒र्यं॑ गी॒र्भिर्गृ॒णन्ति॑ का॒रव॑: । ते स्तोभ॑न्त॒ ऊर्ज॑मावन्घृत॒श्चुतं॑ पौ॒रासो॑ नक्षन्धी॒तिभि॑: ॥

स्वर सहित पद पाठ

ए॒तत् । ते॒ । इ॒न्द्र॒ । वी॒र्य॑म् । गीः॒ऽभिः । गृ॒णन्ति॑ । का॒रवः॑ । ते । स्तोभ॑न्तः । ऊर्ज॑म् । आ॒व॒न् । घृ॒त॒ऽश्चुत॑म् । पौ॒रासः॑ । न॒क्ष॒न् । धी॒तिऽभिः॑ ॥


स्वर रहित मन्त्र

एतत्त इन्द्र वीर्यं गीर्भिर्गृणन्ति कारव: । ते स्तोभन्त ऊर्जमावन्घृतश्चुतं पौरासो नक्षन्धीतिभि: ॥


स्वर रहित पद पाठ

एतत् । ते । इन्द्र । वीर्यम् । गीःऽभिः । गृणन्ति । कारवः । ते । स्तोभन्तः । ऊर्जम् । आवन् । घृतऽश्चुतम् । पौरासः । नक्षन् । धीतिऽभिः ॥