rigveda/8/52/3

य उ॒क्था केव॑ला द॒धे यः सोमं॑ धृषि॒तापि॑बत् । यस्मै॒ विष्णु॒स्त्रीणि॑ प॒दा वि॑चक्र॒म उप॑ मि॒त्रस्य॒ धर्म॑भिः ॥

यः । उ॒क्था । केव॑ला । द॒धे । यः । सोम॑म् । धृ॒षि॒ता । अपि॑बत् । यस्मै॑ । विष्णुः॑ । त्रीणि॑ । प॒दा । वि॒ऽच॒क्र॒मे । उप॑ । मि॒त्रस्य॑ । धर्म॑ऽभिः ॥

ऋषिः - आयुः काण्वः

देवता - इन्द्र:

छन्दः - बृहती

स्वरः - मध्यमः

स्वर सहित मन्त्र

य उ॒क्था केव॑ला द॒धे यः सोमं॑ धृषि॒तापि॑बत् । यस्मै॒ विष्णु॒स्त्रीणि॑ प॒दा वि॑चक्र॒म उप॑ मि॒त्रस्य॒ धर्म॑भिः ॥

स्वर सहित पद पाठ

यः । उ॒क्था । केव॑ला । द॒धे । यः । सोम॑म् । धृ॒षि॒ता । अपि॑बत् । यस्मै॑ । विष्णुः॑ । त्रीणि॑ । प॒दा । वि॒ऽच॒क्र॒मे । उप॑ । मि॒त्रस्य॑ । धर्म॑ऽभिः ॥


स्वर रहित मन्त्र

य उक्था केवला दधे यः सोमं धृषितापिबत् । यस्मै विष्णुस्त्रीणि पदा विचक्रम उप मित्रस्य धर्मभिः ॥


स्वर रहित पद पाठ

यः । उक्था । केवला । दधे । यः । सोमम् । धृषिता । अपिबत् । यस्मै । विष्णुः । त्रीणि । पदा । विऽचक्रमे । उप । मित्रस्य । धर्मऽभिः ॥