rigveda/8/50/10

यथा॒ कण्वे॑ मघव॒न्मेधे॑ अध्व॒रे दी॒र्घनी॑थे॒ दमू॑नसि । यथा॒ गोश॑र्ये॒ असि॑षासो अद्रिवो॒ मयि॑ गो॒त्रं ह॑रि॒श्रिय॑म् ॥

यथा॑ । कण्वे॑ । म॒घ॒ऽव॒न् । मेधे॑ । अ॒ध्व॒रे । दी॒र्घऽनी॑थे । दमू॑नसि । यथा॑ । गोऽश॑र्ये । असि॑सासः । अ॒द्रि॒ऽवः॒ । मयि॑ । गो॒त्रम् । ह॒रि॒ऽश्रिय॑म् ॥

ऋषिः - पुष्टिगुः काण्वः

देवता - इन्द्र:

छन्दः - पङ्क्तिः

स्वरः - पञ्चमः

स्वर सहित मन्त्र

यथा॒ कण्वे॑ मघव॒न्मेधे॑ अध्व॒रे दी॒र्घनी॑थे॒ दमू॑नसि । यथा॒ गोश॑र्ये॒ असि॑षासो अद्रिवो॒ मयि॑ गो॒त्रं ह॑रि॒श्रिय॑म् ॥

स्वर सहित पद पाठ

यथा॑ । कण्वे॑ । म॒घ॒ऽव॒न् । मेधे॑ । अ॒ध्व॒रे । दी॒र्घऽनी॑थे । दमू॑नसि । यथा॑ । गोऽश॑र्ये । असि॑सासः । अ॒द्रि॒ऽवः॒ । मयि॑ । गो॒त्रम् । ह॒रि॒ऽश्रिय॑म् ॥


स्वर रहित मन्त्र

यथा कण्वे मघवन्मेधे अध्वरे दीर्घनीथे दमूनसि । यथा गोशर्ये असिषासो अद्रिवो मयि गोत्रं हरिश्रियम् ॥


स्वर रहित पद पाठ

यथा । कण्वे । मघऽवन् । मेधे । अध्वरे । दीर्घऽनीथे । दमूनसि । यथा । गोऽशर्ये । असिसासः । अद्रिऽवः । मयि । गोत्रम् । हरिऽश्रियम् ॥