rigveda/8/5/20
ऋषिः - ब्रह्मातिथिः काण्वः
देवता - अश्विनौ
छन्दः - गायत्री
स्वरः - षड्जः
तेन॑ । नः॒ । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । पश्वे॑ । तो॒काय॑ । शम् । गवे॑ । वह॑तम् । पीव॑रीः । इषः॑ ॥
तेन । नः । वाजिनीवसू इति वाजिनीऽवसू । पश्वे । तोकाय । शम् । गवे । वहतम् । पीवरीः । इषः ॥