rigveda/8/49/5

आ न॒: स्तोम॒मुप॑ द्र॒वद्धि॑या॒नो अश्वो॒ न सोतृ॑भिः । यं ते॑ स्वधावन्त्स्व॒दय॑न्ति धे॒नव॒ इन्द्र॒ कण्वे॑षु रा॒तय॑: ॥

आ । नः॒ । स्तोम॑म् । उप॑ । द्र॒वत् । हि॒या॒नः । अश्वः॑ । न । सोतृ॑ऽभिः । यम् । ते॒ । स्व॒धा॒ऽव॒न् । स्व॒दय॑न्ति । धे॒नवः॑ । इन्द्र॑ । कण्वे॑षु । रा॒तयः॑ ॥

ऋषिः - प्रस्कण्वः काण्वः

देवता - इन्द्र:

छन्दः - भुरिग्बृहती

स्वरः - मध्यमः

स्वर सहित मन्त्र

आ न॒: स्तोम॒मुप॑ द्र॒वद्धि॑या॒नो अश्वो॒ न सोतृ॑भिः । यं ते॑ स्वधावन्त्स्व॒दय॑न्ति धे॒नव॒ इन्द्र॒ कण्वे॑षु रा॒तय॑: ॥

स्वर सहित पद पाठ

आ । नः॒ । स्तोम॑म् । उप॑ । द्र॒वत् । हि॒या॒नः । अश्वः॑ । न । सोतृ॑ऽभिः । यम् । ते॒ । स्व॒धा॒ऽव॒न् । स्व॒दय॑न्ति । धे॒नवः॑ । इन्द्र॑ । कण्वे॑षु । रा॒तयः॑ ॥


स्वर रहित मन्त्र

आ न: स्तोममुप द्रवद्धियानो अश्वो न सोतृभिः । यं ते स्वधावन्त्स्वदयन्ति धेनव इन्द्र कण्वेषु रातय: ॥


स्वर रहित पद पाठ

आ । नः । स्तोमम् । उप । द्रवत् । हियानः । अश्वः । न । सोतृऽभिः । यम् । ते । स्वधाऽवन् । स्वदयन्ति । धेनवः । इन्द्र । कण्वेषु । रातयः ॥