rigveda/8/48/14

त्राता॑रो देवा॒ अधि॑ वोचता नो॒ मा नो॑ नि॒द्रा ई॑शत॒ मोत जल्पि॑: । व॒यं सोम॑स्य वि॒श्वह॑ प्रि॒यास॑: सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥

त्राता॑रः । दे॒वाः॒ । अधि॑ । वो॒च॒त॒ । नः॒ । मा । नः॒ । नि॒ऽद्रा । ई॒श॒त॒ । मा । उ॒त । जल्पिः॑ । व॒यम् । सोम॑स्य । वि॒श्वह॑ । प्रि॒यासः॑ । सु॒ऽवीरा॑सः । वि॒दथ॑म् । आ । व॒दे॒म॒ ॥

ऋषिः - प्रगाथः काण्वः

देवता - सोमः

छन्दः - त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

त्राता॑रो देवा॒ अधि॑ वोचता नो॒ मा नो॑ नि॒द्रा ई॑शत॒ मोत जल्पि॑: । व॒यं सोम॑स्य वि॒श्वह॑ प्रि॒यास॑: सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥

स्वर सहित पद पाठ

त्राता॑रः । दे॒वाः॒ । अधि॑ । वो॒च॒त॒ । नः॒ । मा । नः॒ । नि॒ऽद्रा । ई॒श॒त॒ । मा । उ॒त । जल्पिः॑ । व॒यम् । सोम॑स्य । वि॒श्वह॑ । प्रि॒यासः॑ । सु॒ऽवीरा॑सः । वि॒दथ॑म् । आ । व॒दे॒म॒ ॥


स्वर रहित मन्त्र

त्रातारो देवा अधि वोचता नो मा नो निद्रा ईशत मोत जल्पि: । वयं सोमस्य विश्वह प्रियास: सुवीरासो विदथमा वदेम ॥


स्वर रहित पद पाठ

त्रातारः । देवाः । अधि । वोचत । नः । मा । नः । निऽद्रा । ईशत । मा । उत । जल्पिः । वयम् । सोमस्य । विश्वह । प्रियासः । सुऽवीरासः । विदथम् । आ । वदेम ॥