rigveda/8/47/4
ऋषिः - त्रित आप्त्यः
देवता - आदित्याः
छन्दः - निचृज्जगती
स्वरः - निषादः
यस्मै॑ । अरा॑सत । क्षय॑म् । जी॒वातु॑म् । च॒ । प्रऽचे॑तसः । मनोः॑ । विश्व॑स्य । घ॒ । इत् । इ॒मे । आ॒दि॒त्याः । रा॒यः । ई॒श॒ते॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥
यस्मै । अरासत । क्षयम् । जीवातुम् । च । प्रऽचेतसः । मनोः । विश्वस्य । घ । इत् । इमे । आदित्याः । रायः । ईशते । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥