rigveda/8/47/2

वि॒दा दे॑वा अ॒घाना॒मादि॑त्यासो अ॒पाकृ॑तिम् । प॒क्षा वयो॒ यथो॒परि॒ व्य१॒॑स्मे शर्म॑ यच्छताने॒हसो॑ व ऊ॒तय॑: सु॒तयो॑ व ऊ॒तय॑: ॥

वि॒द । दे॒वाः॒ । अ॒घाना॑म् । आदि॑त्यासः । अ॒प॒ऽआकृ॑तिम् । प॒क्षा । वयः॑ । यथा॑ । उ॒परि॑ । वि । अ॒स्मे इति॑ । शर्म॑ । य॒च्छ॒त॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥

ऋषिः - त्रित आप्त्यः

देवता - आदित्याः

छन्दः - भुरिक्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

वि॒दा दे॑वा अ॒घाना॒मादि॑त्यासो अ॒पाकृ॑तिम् । प॒क्षा वयो॒ यथो॒परि॒ व्य१॒॑स्मे शर्म॑ यच्छताने॒हसो॑ व ऊ॒तय॑: सु॒तयो॑ व ऊ॒तय॑: ॥

स्वर सहित पद पाठ

वि॒द । दे॒वाः॒ । अ॒घाना॑म् । आदि॑त्यासः । अ॒प॒ऽआकृ॑तिम् । प॒क्षा । वयः॑ । यथा॑ । उ॒परि॑ । वि । अ॒स्मे इति॑ । शर्म॑ । य॒च्छ॒त॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥


स्वर रहित मन्त्र

विदा देवा अघानामादित्यासो अपाकृतिम् । पक्षा वयो यथोपरि व्य१स्मे शर्म यच्छतानेहसो व ऊतय: सुतयो व ऊतय: ॥


स्वर रहित पद पाठ

विद । देवाः । अघानाम् । आदित्यासः । अपऽआकृतिम् । पक्षा । वयः । यथा । उपरि । वि । अस्मे इति । शर्म । यच्छत । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥