rigveda/8/47/10

यद्दे॑वा॒: शर्म॑ शर॒णं यद्भ॒द्रं यद॑नातु॒रम् । त्रि॒धातु॒ यद्व॑रू॒थ्यं१॒॑ तद॒स्मासु॒ वि य॑न्तनाने॒हसो॑ व ऊ॒तय॑: सु॒तयो॑ व ऊ॒तय॑: ॥

यत् । दे॒वाः॒ । शर्म॑ । श॒र॒णम् । यत् । भ॒द्रम् । यत् । अ॒ना॒तु॒रम् । त्रि॒ऽधातु॑ । यत् । व॒रू॒थ्य॑म् । तत् । अ॒स्मासु॑ । वि । य॒न्त॒न॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥

ऋषिः - त्रित आप्त्यः

देवता - आदित्याः

छन्दः - स्वराट्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

यद्दे॑वा॒: शर्म॑ शर॒णं यद्भ॒द्रं यद॑नातु॒रम् । त्रि॒धातु॒ यद्व॑रू॒थ्यं१॒॑ तद॒स्मासु॒ वि य॑न्तनाने॒हसो॑ व ऊ॒तय॑: सु॒तयो॑ व ऊ॒तय॑: ॥

स्वर सहित पद पाठ

यत् । दे॒वाः॒ । शर्म॑ । श॒र॒णम् । यत् । भ॒द्रम् । यत् । अ॒ना॒तु॒रम् । त्रि॒ऽधातु॑ । यत् । व॒रू॒थ्य॑म् । तत् । अ॒स्मासु॑ । वि । य॒न्त॒न॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥


स्वर रहित मन्त्र

यद्देवा: शर्म शरणं यद्भद्रं यदनातुरम् । त्रिधातु यद्वरूथ्यं१ तदस्मासु वि यन्तनानेहसो व ऊतय: सुतयो व ऊतय: ॥


स्वर रहित पद पाठ

यत् । देवाः । शर्म । शरणम् । यत् । भद्रम् । यत् । अनातुरम् । त्रिऽधातु । यत् । वरूथ्यम् । तत् । अस्मासु । वि । यन्तन । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥