rigveda/8/46/29

अध॑ प्रि॒यमि॑षि॒राय॑ ष॒ष्टिं स॒हस्रा॑सनम् । अश्वा॑ना॒मिन्न वृष्णा॑म् ॥

अध॑ । प्रि॒यम् । इ॒षि॒राय॑ । ष॒ष्टिम् । स॒हस्रा॑ । अ॒स॒न॒म् । अश्वा॑नाम् । इत् । न । वृष्णा॑म् ॥

ऋषिः - वशोऽश्व्यः

देवता - इन्द्र:

छन्दः - विराड्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

अध॑ प्रि॒यमि॑षि॒राय॑ ष॒ष्टिं स॒हस्रा॑सनम् । अश्वा॑ना॒मिन्न वृष्णा॑म् ॥

स्वर सहित पद पाठ

अध॑ । प्रि॒यम् । इ॒षि॒राय॑ । ष॒ष्टिम् । स॒हस्रा॑ । अ॒स॒न॒म् । अश्वा॑नाम् । इत् । न । वृष्णा॑म् ॥


स्वर रहित मन्त्र

अध प्रियमिषिराय षष्टिं सहस्रासनम् । अश्वानामिन्न वृष्णाम् ॥


स्वर रहित पद पाठ

अध । प्रियम् । इषिराय । षष्टिम् । सहस्रा । असनम् । अश्वानाम् । इत् । न । वृष्णाम् ॥