rigveda/8/46/17
ऋषिः - वशोऽश्व्यः
देवता - इन्द्र:
छन्दः - जगती
स्वरः - निषादः
म॒हः । सु । वः॒ । अर॑म् । इ॒षे॒ । स्तवा॑महे । मी॒ळ्हुषे॑ । अ॒र॒म्ऽग॒माय । जग्म॑ये । य॒ज्ञेभिः॑ । गीः॒ऽभिः । वि॒श्वऽम॑नुषाम् । म॒रुता॑म् । इ॒य॒क्ष॒सि॒ । गाये॑ । त्वा॒ । नम॑सा । गि॒रा ॥
महः । सु । वः । अरम् । इषे । स्तवामहे । मीळ्हुषे । अरम्ऽगमाय । जग्मये । यज्ञेभिः । गीःऽभिः । विश्वऽमनुषाम् । मरुताम् । इयक्षसि । गाये । त्वा । नमसा । गिरा ॥