rigveda/8/44/12

अ॒ग्निः प्र॒त्नेन॒ मन्म॑ना॒ शुम्भा॑नस्त॒न्वं१॒॑ स्वाम् । क॒विर्विप्रे॑ण वावृधे ॥

अ॒ग्निः । प्र॒त्नेन॑ । मन्म॑ना । शुम्भा॑नः । त॒न्व॑म् । स्वाम् । क॒विः । विप्रे॑ण । व॒वृ॒धे॒ ॥

ऋषिः - विरूप आङ्गिरसः

देवता - अग्निः

छन्दः - विराड्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

अ॒ग्निः प्र॒त्नेन॒ मन्म॑ना॒ शुम्भा॑नस्त॒न्वं१॒॑ स्वाम् । क॒विर्विप्रे॑ण वावृधे ॥

स्वर सहित पद पाठ

अ॒ग्निः । प्र॒त्नेन॑ । मन्म॑ना । शुम्भा॑नः । त॒न्व॑म् । स्वाम् । क॒विः । विप्रे॑ण । व॒वृ॒धे॒ ॥


स्वर रहित मन्त्र

अग्निः प्रत्नेन मन्मना शुम्भानस्तन्वं१ स्वाम् । कविर्विप्रेण वावृधे ॥


स्वर रहित पद पाठ

अग्निः । प्रत्नेन । मन्मना । शुम्भानः । तन्वम् । स्वाम् । कविः । विप्रेण । ववृधे ॥