rigveda/8/42/2
ऋषिः - नाभाकः काण्वः
देवता - वरुणः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
ए॒व । व॒न्द॒स्व॒ । वरु॑णम् । बृ॒हन्त॑म् । न॒म॒स्य । धीर॑म् । अ॒मृत॑स्य । गो॒पाम् । सः । नः॒ । शर्म॑ । त्रि॒ऽवरू॑थम् । वि । यं॒स॒त् । प॒तम् । नः॒ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । उ॒पऽस्थे॑ ॥
एव । वन्दस्व । वरुणम् । बृहन्तम् । नमस्य । धीरम् । अमृतस्य । गोपाम् । सः । नः । शर्म । त्रिऽवरूथम् । वि । यंसत् । पतम् । नः । द्यावापृथिवी इति । उपऽस्थे ॥