rigveda/8/40/3

ता हि मध्यं॒ भरा॑णामिन्द्रा॒ग्नी अ॑धिक्षि॒तः । ता उ॑ कवित्व॒ना क॒वी पृ॒च्छ्यमा॑ना सखीय॒ते सं धी॒तम॑श्नुतं नरा॒ नभ॑न्तामन्य॒के स॑मे ॥

ता । हि । मध्य॑म् । भरा॑णाम् । इ॒न्द्रा॒ग्नी इति॑ । अ॒धि॒ऽक्षि॒तः । ता । ऊँ॒ इति॑ । क॒वि॒ऽत्व॒ना । क॒वी इति॑ । पृ॒च्छ्यमा॑ना । स॒खी॒ऽय॒ते । सम् । धी॒तम् । अ॒श्नु॒त॒म् । नरा॑ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

ऋषिः - नाभाकः काण्वः

देवता - इन्द्राग्नी

छन्दः - स्वराट्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

ता हि मध्यं॒ भरा॑णामिन्द्रा॒ग्नी अ॑धिक्षि॒तः । ता उ॑ कवित्व॒ना क॒वी पृ॒च्छ्यमा॑ना सखीय॒ते सं धी॒तम॑श्नुतं नरा॒ नभ॑न्तामन्य॒के स॑मे ॥

स्वर सहित पद पाठ

ता । हि । मध्य॑म् । भरा॑णाम् । इ॒न्द्रा॒ग्नी इति॑ । अ॒धि॒ऽक्षि॒तः । ता । ऊँ॒ इति॑ । क॒वि॒ऽत्व॒ना । क॒वी इति॑ । पृ॒च्छ्यमा॑ना । स॒खी॒ऽय॒ते । सम् । धी॒तम् । अ॒श्नु॒त॒म् । नरा॑ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥


स्वर रहित मन्त्र

ता हि मध्यं भराणामिन्द्राग्नी अधिक्षितः । ता उ कवित्वना कवी पृच्छ्यमाना सखीयते सं धीतमश्नुतं नरा नभन्तामन्यके समे ॥


स्वर रहित पद पाठ

ता । हि । मध्यम् । भराणाम् । इन्द्राग्नी इति । अधिऽक्षितः । ता । ऊँ इति । कविऽत्वना । कवी इति । पृच्छ्यमाना । सखीऽयते । सम् । धीतम् । अश्नुतम् । नरा । नभन्ताम् । अन्यके । समे ॥