rigveda/8/34/12

सरू॑पै॒रा सु नो॑ गहि॒ सम्भृ॑तै॒: सम्भृ॑ताश्वः । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥

सऽरू॑पैः । आ । सु । नः॒ । ग॒हि॒ । सम्ऽभृ॑तैः । सम्भृ॑तऽअश्वः । दि॒वः । अ॒मुष्य॑ । शास॑तः । दिव॑म् । य॒य । दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥

ऋषिः - नीपातिथिः काण्वः

देवता - इन्द्र:

छन्दः - निचृदनुष्टुप्

स्वरः - गान्धारः

स्वर सहित मन्त्र

सरू॑पै॒रा सु नो॑ गहि॒ सम्भृ॑तै॒: सम्भृ॑ताश्वः । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥

स्वर सहित पद पाठ

सऽरू॑पैः । आ । सु । नः॒ । ग॒हि॒ । सम्ऽभृ॑तैः । सम्भृ॑तऽअश्वः । दि॒वः । अ॒मुष्य॑ । शास॑तः । दिव॑म् । य॒य । दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥


स्वर रहित मन्त्र

सरूपैरा सु नो गहि सम्भृतै: सम्भृताश्वः । दिवो अमुष्य शासतो दिवं यय दिवावसो ॥


स्वर रहित पद पाठ

सऽरूपैः । आ । सु । नः । गहि । सम्ऽभृतैः । सम्भृतऽअश्वः । दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो इति दिवाऽवसो ॥