rigveda/8/33/11
ऋषिः - मेधातिथिः काण्वः
देवता - इन्द्र:
छन्दः - निचृद्बृहती
स्वरः - मध्यमः
वृष॑णः । ते॒ । अ॒भीश॑वः । वृषा॑ । कशा॑ । हि॒र॒ण्ययी॑ । वृषा॑ । रथः॑ । म॒घ॒ऽव॒न् । वृष॑णा । हरी॒ इति॑ । वृषा॑ । त्वम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ॥
वृषणः । ते । अभीशवः । वृषा । कशा । हिरण्ययी । वृषा । रथः । मघऽवन् । वृषणा । हरी इति । वृषा । त्वम् । शतक्रतो इति शतऽक्रतो ॥