rigveda/8/33/1
ऋषिः - मेधातिथिः काण्वः
देवता - इन्द्र:
छन्दः - बृहती
स्वरः - मध्यमः
व॒यम् । घ॒ । त्वा॒ । सु॒तऽव॑न्तः । आपः॑ । न । वृ॒क्तऽब॑र्हिषः । प॒वित्र॑स्य । प्र॒ऽस्रव॑णेषु । वृ॒त्र॒ऽह॒न् । परि॑ । स्तो॒तारः॑ । आ॒स॒ते॒ ॥
वयम् । घ । त्वा । सुतऽवन्तः । आपः । न । वृक्तऽबर्हिषः । पवित्रस्य । प्रऽस्रवणेषु । वृत्रऽहन् । परि । स्तोतारः । आसते ॥