rigveda/8/27/9
ऋषिः - मनुर्वैवस्वतः
देवता - विश्वेदेवा:
छन्दः - निचृद्बृहती
स्वरः - मध्यमः
वि । नः॒ । दे॒वा॒सः॒ । अ॒द्रु॒हः॒ । अच्छि॑द्रम् । शर्म॑ । य॒च्छ॒त॒ । न । यत् । दू॒रात् । व॒स॒वः॒ । नु । चि॒त् । अन्ति॑तः । वरू॑थम् । आ॒ऽद॒धर्ष॑ति ॥
वि । नः । देवासः । अद्रुहः । अच्छिद्रम् । शर्म । यच्छत । न । यत् । दूरात् । वसवः । नु । चित् । अन्तितः । वरूथम् । आऽदधर्षति ॥